ध्यान- शिव प्रार्थना और शिवरक्षा कवच-संस्कृत में | Dyan - Shiv Prarthana and Shivraksha Kavach| The Spiritual Indians .
।। ध्यान- शिव प्रार्थना।।
शिव हर शंकर नमामि शंकर शिव शंकर शंभो।
हे गिरीजापती भवानी शंकर शिव शंकर शंभो।।
।।शिवरक्षा कवच ।।
।।शिवरक्षा कवच ।।
श्रीगणेशाय नमः। श्री साम्बसदाशिवाय नमः।
अस्य श्रीशवरक्षास्तोत्रमंत्रस्य। याज्ञवल्क्य ऋषिः।
श्रीसदाशिवो देवता। अनुष्टुप छंदः।
श्रीसदाशिवप्रीत्यर्थ शिवरक्षा स्तोत्र जपे विनियोगः।
चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वगस्य साधनम् ।। १।।
गौरीविनायकोपेतं पंचवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षा पठेन्नरः ।। २।।
गंगाधरः शिरः पातु भालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ।। ३।।
घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वा वागीश्वरः पातु कंधरं शितिकंधरः।। ४।।
श्रीकंठः पातु मे कंठं स्कधौ विश्वधुरंधरः।
भुजौ भुभारसंहर्ता करौ पातु पिनाकधृक्।। ५।।
ह्रदयं शंकरः पातु जठरं गिरिजापतिः।
नाभिं मृत्युंजयः पातु कटी व्याघ्रजिनाम्बरः।। ६।।
सक्थिनी पातु दीनार्त शरणागतवत्सलः।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः।। ७।।
जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिपं।
चरणौ करुणासिंधुः सर्वांगानि सदाशिवः ।। ८।।
एतां शिवबलोपेतां रक्षां यः सकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् ।। ९।।
ग्रहभूतपिशाचाद्यस्त्रैलोक्ये विचरन्ति ये।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात्।। १०।।
अभयंकर नामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कंडे तस्य वश्यं जगत्त्रयम्।। ११।।
इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽ दिशत्।
प्रातरुत्थाय योगीन्दो याज्ञवल्क्यस्तथाऽ लिखत् ।। १२।।
।। इति श्री याज्ञवल्क्यप्रोक्तं शिवरक्षा-स्तोत्रम् सम्पूर्णम्।।
Comments
Post a Comment