श्रीमद्भागवत गीता का १२वा अध्याय - संस्कृत में | Shreemad Bhagvad Geeta 12 Adhyay | The Spiritual Indians

                            ॐश्रीपरमात्मने नमः 
                             अथ द्वादशोऽध्यायः
अर्जुन उवाच -

एवं सततयुक्ता ये भक्ता-स्त्वां पर्युपासते ।

ये चाप्यक्षरमव्यक्तंतेषां के योगवित्तमाः ॥१२- १॥

श्रीभगवानुवाच -
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।

श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२- २॥

ये त्वक्षरमनिर्देश्यम- व्यक्तं पर्युपासते ।

सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥१२- ३॥

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२- ४॥

क्लेशोऽधिकतरस्तेषा-मव्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गति- र्दुःखं देहवद्भिरवाप्यते ॥१२- ५॥

ये तु सर्वाणि कर्मणि मयि संन्यस्य मत्पराः ।

अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२- ६॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२- ७॥

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२- ८॥

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।

अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥१२- ९॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्मणि  कुर्वन्सिद्धिमवाप्स्यसि ॥१२- १०॥

अथैतदप्यशक्तोऽसि  कर्तुं मद्योगमाश्रितः ।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२- ११॥

श्रेयो हि ज्ञानमभ्यासाज्- ज्ञानाद्ध्यानं विशिष्यते ।

ध्यानात्कर्मफलत्यागस्- त्यागाच्छान्तिरनन्तरम् ॥१२- १२॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।

निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१२- १३॥

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।

मय्यर्पितमनोबुद्धिर्यो  मद्भक्तः स मे प्रियः ॥१२- १४॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२- १५॥

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२- १६॥

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१२- १७॥

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२- १८॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।

अनिकेतः स्थिरमति- र्भक्तिमान्मे प्रियो नरः ॥१२- १९॥

ये तु धर्म्यामृतमिदं  यथोक्तं पर्युपासते ।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥१२- २०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रेश्रीकृष्णार्जुनसंवादे

भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥

Comments

Popular posts from this blog

स्वामी चरित्र अवतणिका. Swami Charitra Avatarnika .The Spiritual Indians

श्रीमद्भागवत गीता का 15वा अध्यय - संस्कृत में | Shreemad Bhagvad Geeta 15 Adhyay - Sanskrit. The Spiritual Indians